|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.64. अध्यायः 064
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति इन्द्ररूपिहरिणा मांधातारं प्रत्युक्तराजधर्मादिकथनम्॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
इन्द्र उवाच। 12-64-0x(5482)(67286)
एवंवीर्यः सर्वधर्मोपपन्नः
क्षात्रः श्रेष्ठः सर्वधर्मेषु धर्मः।
पाल्यो युष्माभिर्लोकपालैरुदारै
र्विपर्यये स्यादभवः प्रजानाम्। 12-64-1(67287)
भूसस्कारं धर्मसंस्कारयोग्यं
दीक्षाचर्यां पालनं च प्रजानाम्।
विद्याद्राज्ञः सर्वभूतानुकम्पा
देहत्यागं चाहवे धर्ममग्र्यम्॥ 12-64-2(67288)
त्यागं श्रेष्ठं मुनयो वै वदन्ति
सर्वश्रेष्ठं यच्छरीरं त्यजन्ति।
नित्यं व्यक्तं राजधर्मेषु सर्वे
प्रत्यक्षं ते भूमिपाला यथैते॥ 12-64-3(67289)
बहुश्रुत्या गुरुशुश्रूषया वा
परस्पराः संहननाद्वदन्ति।
नित्यं धर्मं क्षत्रियो ब्रह्मचारी।
चरेदेको ह्याश्रमं धर्मकामः॥ 12-64-4(67290)
सामान्यार्थे व्यवहारे प्रवृत्ते
प्रियाप्रिये वर्जयन्नैव यत्नात्।
चातुर्वर्ण्यं स्थापनात्पालनाच्च
तैस्तैर्योगैर्नियमैरौषधैश्च॥ 12-64-5(67291)
सर्वोद्योगैराश्रमं धर्ममाहुः
क्षात्रं श्रेष्ठं सर्वधर्मोपपन्नम्।
वंस्वं धर्मं येन चरन्ति वर्णा
स्तांस्तान्धर्मानन्यथार्थान्वदन्ति॥ 12-64-6(67292)
नेर्मर्यादान्नित्यमर्थे निविष्टा
नाहुस्तान्वै पशुभूतान्मनुष्यान्।
यथा नीतिं गमयत्यर्थयोगा
च्छ्रेयस्तस्मादाश्रमात्क्षत्रधर्मः॥ 12-64-7(67293)
त्रैविद्यानां या गतिर्ब्राह्मणानां
ये चैवोक्ताः स्वाश्रमा ब्राह्मणानाम्।
एतत्कर्म क्षत्रियस्याहुरग्र्य
मन्यत्कुर्वञ्छूद्रवच्छस्त्रवध्यः॥ 12-64-8(67294)
चातुराश्रम्यधर्माश्च वेदवादाश्च पार्थिव।
ब्राह्मणेनानुगन्तव्या नान्यो विद्यात्कदाचन॥ 12-64-9(67295)
अन्यथा वर्तमानस्य न सा वृत्तिः प्रकल्प्यते।
कर्मणा वर्धते धर्मो यथा धर्मस्तथैव सः॥ 12-64-10(67296)
यो विकर्मस्थितो विप्रो न स सन्मानमर्हति।
कर्म स्वमप्रयुञ्जानमविश्वास्यं हि तं विदुः॥ 12-64-11(67297)
एते वर्णाः सर्वधर्मैश्च हीना
उत्क्रष्टव्याः क्षत्रियैरेव धर्माः।
तस्माच्छ्रेष्ठा राजधर्मा न चान्ये
वीर्यश्रेष्ठा राजधर्मा मता मे॥ 12-64-12(67298)
मान्धातोवाच। 12-64-13x(5483)
यवनाः किराता गान्धाराश्चीनाः शबरबर्बराः।
शकास्तुषाराः कङ्काश्च पल्लवाश्चान्ध्रमद्रकाः॥ 12-64-13(67299)
उष्ट्राः पुलिन्दा आरट्टाः काचा म्लेच्छाश्च सर्वशः।
ब्रह्मक्षत्रप्रसूताश्च वैश्याः शूद्राश्च मानवाः॥ 12-64-14(67300)
कथं धर्मांश्चरिष्यन्ति सर्वे विषयवासिनः।
मद्विधैश्च कथं स्थाप्याः सर्वे वै दस्युजीविनः॥ 12-64-15(67301)
एतदिच्छाम्यहं श्रोतुं मघवंस्तद्ब्रवीहि मे।
त्वं बन्धुभूतो ह्यस्माकं क्षत्रियाणां सुरेश्वर॥ 12-64-16(67302)
इन्द्र उवाच। 12-64-17x(5484)
मातापित्रोर्हि शुश्रूषा कर्तव्या सर्वदस्युभिः।
आचार्यगुरुशुश्रूषा तथैवाश्रमवासिनाम्॥ 12-64-17(67303)
भूमिपानां च शुश्रूषा कर्तव्या सर्वदस्युभिः।
देशधर्मक्रियाश्चैव तेषां धर्मो विधीयते॥ 12-64-18(67304)
पितृयज्ञास्तथा कूपाः प्रपाश्च शयनानि च।
दानानि च यथाकालं दातव्यानि द्विजातिषु॥ 12-64-19(67305)
अहिंसा सत्यमक्रोधो वृत्तिदायानुपालनम्।
भरणं पुत्रदाराणां शौचमद्रोह एव च॥ 12-64-20(67306)
दक्षिणा सर्वयज्ञानां दातव्या धर्ममिच्छता।
पाकयज्ञा महार्थाश्च दातव्याः सर्वदस्युभिः॥ 12-64-21(67307)
एतान्येवंप्रकाराणि विहितानि पुराऽनघ।
सर्वलोकस्य कर्माणि कर्तव्यानीह पार्थिव॥ 12-64-22(67308)
मान्धातोवाच। 12-64-23x(5485)
दृश्यन्ते मानुषे लोके सर्ववर्णेषु दस्यवः।
लिङ्गान्तरे वर्तमाना आश्रमेषु तथैव च॥ 12-64-23(67309)
इन्द्र उवाच। 12-64-24x(5486)
विनष्टायां दण्डनीत्यां राजधर्मे विनाकृते।
संप्रमुह्यन्ति भूतानि राजदौरात्म्यतोऽनघ॥ 12-64-24(67310)
असङ्ख्याता भविष्यन्ति भिक्षवो लिङ्गिनस्तथा।
आश्रमाणां विकल्पाश्च वृत्तेऽस्मिन्वैकृते युगे॥ 12-64-25(67311)
अशृण्वानाः पुराणानां धर्माणां शतशो नराः।
उत्पथं प्रतिपत्स्यन्ते काममन्युसमीरिताः॥ 12-64-26(67312)
यदा निवर्त्यते पापो दण्डनीत्या महात्मभिः।
तदा धर्मो न चलते संभूतः शाश्वतः पुरा॥ 12-64-27(67313)
सर्वलोकगुरुं चैव राजानं योऽवमन्यते।
न तस्य दत्तं न कृतं न श्रुतं फलति क्वचित्॥ 12-64-28(67314)
मानुषाणामधिपतिं देवभूतं महाद्युतिम्।
देवाश्च बहुमन्यन्ते धर्मकामं नरेश्वरम्॥ 12-64-29(67315)
प्रजापतिर्हि भगवान्यः सर्वमसृजज्जगत्।
स प्रवृत्तिनिवृत्त्यर्थं धर्माणां क्षत्रमिच्छति॥ 12-64-30(67316)
प्रवृत्तस्य हि धर्मस्य बुद्ध्या यः स्मरते गतिम्।
स मे मान्यश्च पूज्यश्च स च क्षत्रे प्रतिष्ठितः॥ 12-64-31(67317)
भीष्म उवाच। 12-64-32x(5487)
एवमुक्त्वा स भगवान्मरुद्गणवृतः प्रभुः।
जगाम भवनं विष्णुरक्षरं शाश्वतं परम्॥ 12-64-32(67318)
एवं प्रवर्तिते धर्मे पुरा सुचरितेऽनघ।
कः क्षत्रमतिवर्तेत चेतनावान्बहुश्रुतः॥ 12-64-33(67319)
अन्यायेन प्रवृत्तानि निवृत्तानि तथैव च।
अन्तरा विलयं यान्ति यथा पथि विचक्षुषः॥ 12-64-34(67320)
आदौ प्रवर्तिते चक्रे तथैवादिपरायणे।
वर्तस्व पुरुषव्याघ्र संविजानामि तेऽनघ॥ ॥ 12-64-35(67321)
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि चतुःषष्टितमोऽध्यायः॥ 64॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-64-2 भूसंस्कारं भुवः संपन्नसस्यत्वम्। राजसंस्कारयोगमिति झ. पाठः। तत्र राजसंस्कारो तजसूयादिरर्थः॥ 12-64-5 नियमैरौरसैश्चेति झ.पाठः। तत्र औरसैः पौरुषैः इत्यर्थः॥ 12-64-6 येन क्षात्रधर्मेण। अन्यथार्थान्निष्प्रयोजनान् वदन्ति॥ 12-64-7 निर्मर्यादे नित्यमर्थे विनष्टे न र्मचिन्ता पशुभूते मनुष्ये। इति ट. ड. थ. पाठः॥ 12-64-8 या गतिर्यज्ञादिः आश्रमधर्मश्च एतद्द्वयम्॥ 12-64-10 कर्मणा त्यज्यते धर्मो यथैव स्यात्तथैव सः इति ट. ड. थ. पाठः॥ 12-64-12 उत्क्रष्टव्या उत्कर्षं प्रापणीया॥ 12-64-15 दस्युजीविनो दस्युवृत्तिजीविनः॥ 12-64-26 परमा गतीः इति झ. पाठः॥ 12-64-31 गतिं फलम्॥ 12-64-35 आदिपरायणे पूर्वेषां शरणभूते वर्तस्व। ते त्वाम्॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|